| YouTube Channel

अतिप्रसक्तिः अतिप्रसङ्गः (atiprasaktiH atiprasaGgaH)

 
E Bharati Sampat
Sanskrit
(स्त्री) अतिशयिता प्रसक्तिः १.प्रसङ्गम् अतिक्रम्य अन्यत्र सम्बन्धः, अतिप्रसङ्गः। लक्ष्ये लक्षणसम्बन्धः प्रसङ्गः, अलक्ष्ये लक्षणसम्बन्धः अतिप्रसङ्गः।२.अत्यन्तासक्तिः, अमितानुरागः। ३.अधिकोक्तिः। (पु) अतिशयितः प्रसङ्गः। १.अत्यन्तासक्तिः। २.प्रसङ्गमतिक्रम्य अन्यत्र सम्बन्धः। लक्ष्ये लक्षणसम्बन्धः प्रसङ्गः, अलक्ष्ये लक्षणसम्बन्धः अतिप्रसङ्गः। ३.अधिकः विस्तारः। ‘अलमतिप्रसङ्गेन’ मुद्रा० ४.समीपसम्बन्धः, अविच्छेदः। ‘अतिप्रसङ्गाद् विहितगसो मुहुः’ किरा० ८.३३।